|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.35. अध्यायः 035
Mahabharata - Karna Parva - Chapter Topics
शल्येन कर्णंप्रति हंसकाकीयाख्यानकथनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-35-0x(4927)(56549)
मारिषाधिरथेः श्रुत्वा वाचो युद्धाभिनन्दिनः।
शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन्॥ 8-35-1(56550)
जातोऽहं यज्वनां वंशे सङ्ग्रामेष्वनिवर्तिनाम्।
राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः॥ 8-35-2(56551)
यथैव मत्तो मद्येन त्वं तथा लक्ष्यसे वृष।
तथाऽद्य त्वां प्रमाद्यन्तं चिकित्सेयं सुहृत्तया॥ 8-35-3(56552)
इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे।
श्रुत्वा यथेष्टं कुर्यास्त्वं निहीन कुलपांसन॥ 8-35-4(56553)
नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे।
येन मां त्वं महाबाहो हन्तुमिच्चस्यनागसम्॥ 8-35-5(56554)
अवश्यं तु मया वाच्यं बुद्ध्वा तव हिताहितम्।
विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा॥ 8-35-6(56555)
समं च विषमं चैव रथिनश्च बलाबलम्।
श्रमः खेदश्च सततं हयानां रथिना सह॥ 8-35-7(56556)
आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम्।
सारं चैवाप्यासरं च शल्यानां च प्रतिक्रिया॥ 8-35-8(56557)
अस्त्रयोगं च युद्वं च निमित्तानि तथैव च।
सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना।
अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः॥ 8-35-9(56558)
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान्।
यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः॥ 8-35-10(56559)
बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः।
राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः॥ 8-35-11(56560)
पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम्।
काको बहूनामभवदुच्छिष्टकृतभोजनः॥ 8-35-12(56561)
तस्मैसदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः।
मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी॥ 8-35-13(56562)
स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः।
सदृशान्पक्षिणो दृप्तः श्रेयससश्चावमन्यते॥ 8-35-14(56563)
अथ हंसाः समुद्रान्ते प्रजग्मुरतिपातिनः।
गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः॥ 8-35-15(56564)
कुमरारकास्तदा हंसान्दृष्ट्वा काकमथाब्रुवन्।
भवानेव विशिष्टोऽसि पतत्रिभ्यो विहङ्गम॥ 8-35-16(56565)
एतेऽतिपातिनः पश्य विहङ्गान्वियदाश्रितान्।
एहि त्वमपि शक्तो हि कस्मान्न पतितं त्वया॥ 8-35-17(56566)
प्रतार्यमाणस्तैः सर्वैरल्पबुद्धिभइरण्डजः।
तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च जज्ञिवान्॥ 8-35-18(56567)
तान्सोनुपत्य जिज्ञासुः क एषां श्रेष्ठभागिति।
उच्छिष्टदर्पितः काको बहूनामेकपातिनाम्॥ 8-35-19(56568)
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम्।
स तमाह्वत दुर्बुद्धिः पताव इति पक्षिणम्।
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः॥ 8-35-20(56569)
भाषतो बहु काकस्य बालिश्यात्पततां वराः।
इदमूचुः स्म चक्राङ्गावचः काकं विङ्गमाः॥ 8-35-21(56570)
हंसा ऊचुः। 8-35-22x(4928)
वयं हंसाश्चरामेमां पृथिवीं मानसौकसः।
पक्षिणां च वयं नित्यं दूरपातेन पूजिताः॥ 8-35-22(56571)
कथं हंसं नु बलिनं चक्राङ्गं दूरपातिनम्।
काको भूत्वा निपतने समाह्वयसि दुर्मते।
कथं त्वं पतिता काक सहास्माभिर्ब्रवीहि तत्॥ 8-35-23(56572)
अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः।
प्रजगादोत्तरं काकः कत्थनो जातिलाघवात्॥ 8-35-24(56573)
काक उवाच। 8-35-25x(4929)
शतमेकं च पातानां पतिताऽस्मि न संशयः।
शतयोजनमेकैकं विचित्रं विविधं तथा॥ 8-35-25(56574)
उड्डीनमवडीनं च प्रडीनं डीनमेव च।
निडीनमथ संडीनं तिर्यक्डीनगतानि च॥ 8-35-26(56575)
विडीनं परिडीनं च पराडीनं सुडीनकम्।
अभिडीनं महाडीनं निर्डीनमतिडीनकम्॥ 8-35-27(56576)
अवडीनं प्रडीनं च संडीनं डीनडीनकम्।
संडीनोड्डीनडीनं च पुनर्डीनविडीनकम्॥ 8-35-28(56577)
संपातं समुदीषं च ततोऽन्यद्व्यतिरिक्तकम्।
गतागतं प्रतिगतं बह्वीश्च निकुलीनकाः।
कर्ताऽस्मि मिषतां वोऽद्य ततो द्रक्षयथ मे बलम्॥ 8-35-29(56578)
तेषामन्यतमेनाहं पतिष्यामि विहायसम्।
प्रदिशध्वं यथान्यायं केन हंसाः पताम्यहम्॥ 8-35-30(56579)
ते वै ध्रुवं विनिश्चित्य सम्पतध्वं मया सह।
पातैरेभिः खलु खगाः पतितुं खे निराश्रये॥ 8-35-31(56580)
एवमुक्ते तु काकेन प्रहस्यैको विहंगमः।
उवाच काकं राधेय वचनं तन्निबोध मे॥ 8-35-32(56581)
हंस उवाच। 8-35-33x(4930)
शतमेकं च पातानां त्वं काक पतिता ध्रुवम्।
एकमेव तु यं पातं विदुः सर्वे विहङ्गमाः।
तमहं पतिता काक नान्यं जानामि कञ्चन॥ 8-35-33(56582)
काक उवाच। 8-35-34x(4931)
पत त्वमपि तत्राशु येन पातेन मन्यसे॥ 8-35-34(56583)
अथ काकं प्रजहसुर्ये तत्रासन्समागताः।
कथमेकेन पातेन हंसः पातशतं जयेत्।
एकेन वायस त्वैनं पातेनाभिभविष्यति॥ 8-35-35(56584)
हंसश्चोत्पतितः काको बलवानाशुविक्रमः।
प्रपेततुः स्पर्धया च ततस्तौ हंसवायसौ।
उपर्युपरि वेगेन समुद्रं मकरालयम्॥ 8-35-36(56585)
हंसस्त्वेकेन पातेन काकः पातशतेन च।
स्पर्धिनौ सहितौ तूर्णं खमास्थाय तरस्विनौ॥ 8-35-37(56586)
हंसस्तु मृदुनैकेन विक्रान्तुमुपचक्रमे।
पूर्वमेव तु वै काकः स तं तूर्णं प्रचक्रमे॥ 8-35-38(56587)
नात्यहीयत काकश्च मुहूर्तमिव सूतज॥ 8-35-39(56588)
काकोपि हंसं चापल्याच्छीघ्रतां प्रतिदर्शयन्।
वेगेनातीत्य तरसा पुनरेति मुहुर्मुहुः॥ 8-35-40(56589)
तुण्डेनाभ्यहनच्चैनं कुर्वन्नामापसव्यतः।
रोरूयन्निव चाप्येनं समाह्वयति वै मुहुः।
विसिस्मापयिषुः पातैर्दर्शयन्नात्मनः क्रियाम्॥ 8-35-41(56590)
अथ तानि विचित्राणि पतितानीतराणि च।
दृष्ट्वा प्रमुदिताः काका विनेदुरधिकैः स्वरैः॥ 8-35-42(56591)
हंसाश्चापहसन्ति स्म प्रवदन्ति प्रियाणि च।
कुर्वाणा विविधान्रावानिच्छन्तो जयमात्मनः॥ 8-35-43(56592)
उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च।
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च॥ 8-35-44(56593)
अवमत्य च हंसं तमिदं काकोऽब्रवीद्वचः।
योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते॥ 8-35-45(56594)
अथ हंसस्तु तच्छ्रुत्वा भाषितं पततांवरः।
विगाह्य हंसो विक्षोभ्य प्रापतत्पश्चिमां दिशम्॥ 8-35-46(56595)
उपर्युपरि वेगेन सागरं मकरालयम्।
बहुसत्वसमाकीर्णं वीचीभिर्भीमदर्शनम्॥ 8-35-47(56596)
अथाचिरेण राधेय काको वेगादहीयत।
ततोऽतीव परिश्रान्तः कथञ्चिद्वंसमन्वगात्॥ 8-35-48(56597)
भीश्चैनमाविशत्तीव्रं काकं कर्ण विचेतसम्।
द्वीपान्द्रुमान्वितान्पश्यन्विश्रमार्थं श्रमातुरः।
निपतेयं क्कनु श्रान्त इति तस्मिञ्जलार्णवे॥ 8-35-49(56598)
अवगाह्य समुद्रोऽपि बहुसत्वगणालयः।
महान्भूतशतोद्भूसी नभसस्तु विशिष्यते॥ 8-35-50(56599)
गाम्भीर्यार्द्वि समुद्रस्य न विशेषं कुलाधम।
दिशश्च नाम्भसां कर्ण समुद्रस्था विदुर्जनाः।
विपश्चितोप्यपारत्वात्किं पुनः कर्ण वायसः॥ 8-35-51(56600)
अथ हंसोप्यतिक्रामन्मुहूर्तमिव दूरतः।
अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत॥ 8-35-52(56601)
शनकैः परिहीनं तं परिश्रान्तमचेतसम्।
अवेक्षमाणस्तं काकं प्रत्यागम्य हसन्निव॥ 8-35-53(56602)
तं प्रहस्य च चक्राङ्गः काकं मन्दगतिं तदा।
हीयमानमथो दृष्ट्वा हंसः प्राह यथार्थवत्।
उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम्॥ 8-35-54(56603)
बहूनि पतितानि त्वमाचक्षाणो मुहुर्मुहुः।
पतस्यव्याहरन्खेदं ततो गर्ह्यं प्रभाषसे॥ 8-35-55(56604)
जलं नाम पतितं काक यत्त्वं पतसि साम्प्रतम्।
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः॥ 8-35-56(56605)
प्रब्रूहि कतमोऽयं ते पातो वर्तति वायस।
एह्येहि काक शीघ्रं त्वमेष त्वां परिपालये॥ 8-35-57(56606)
स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च जलं तदा।
काको दृढं परिश्रान्तः सहसा निपपात ह॥ 8-35-58(56607)
सागराम्भसि तं दृष्ट्वा पततन्तं दीनचेतसम्।
म्रियमाणमिदं वाक्यं हंसः काकमुवाच ह॥ 8-35-59(56608)
शतमेकं च पातानां पताम्यहमिति स्म ह।
श्लाघन्नात्मानमद्य त्वं काक भाषितवानसि॥ 8-35-60(56609)
स त्वमेकशतं पातं पतन्नभ्यधिको मया।
कथमेवं परिश्रान्तः पतितोऽसि महार्णवे॥ 8-35-61(56610)
प्रत्युवाच ततः काकः सीदमान इदं वचः।
उपरीतं तदा हंसं प्रसमीक्ष्य प्रसादयन्॥ 8-35-62(56611)
उच्छिष्टान्नेन पुष्टोऽहं दर्पोत्सिक्तः कुसत्वतः।
सुपर्ण इव चात्मानं ज्ञातवान्पुत्रलाघवात्॥ 8-35-63(56612)
शरणं त्वां प्रपन्नोऽहमुदकान्तमवाप्नुयाम्।
हंसेदानीं परिश्रान्तमापदो मां समुद्वर॥ 8-35-64(56613)
यदि नाम पुनर्जीवन्गच्छेयं स्वं निवेशनम्।
नैनं पुनर्हीनमपि क्षेप्ताऽहं खे विचारिणम्॥ 8-35-65(56614)
तमेवं करुणं दीनं विलपन्तमचेतसम्।
काककाकेति वाशन्तं निमज्जन्तं महार्णवे।
कृपयाऽभिपरीतो वै कृपां चक्रे दुरात्मनि॥ 8-35-66(56615)
अथ तं पततं दीनं जलक्लिन्नमचेतनम्।
पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारो पयत्तदा॥ 8-35-67(56616)
स हंसः पृष्ठमारोप्य काकं कर्ण विचेतसम्।
अविस्मयंस्तदा कर्ण पुनरेव समानयत्।
तमेव देशं तरसा स्पर्धया पेततुर्यतः॥ 8-35-68(56617)
उत्सृज्य त्वब्रवीन्मैवं पुनः कार्यं त्वयेति ह।
स्थाप्य चैनं पुनर्द्वीपे समाश्वस्य च विक्लवम्।
गतो यथेप्सितं देशं हंसो मन इवाशुगः॥ 8-35-69(56618)
एवमुच्छिष्टपुष्टः स काकोऽहंसपराजितः।
बलं वीर्यं महत्कर्ण त्यक्त्वा क्षान्तिमुपागतः॥ 8-35-70(56619)
उच्छिष्टभोजनः काको यथा वैश्यकुले पुरा।
एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः॥ 8-35-71(56620)
सदृशाञ्श्रेयसश्चापि सर्वान्कर्णावमन्यसे।
द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः॥ 8-35-72(56621)
विराटनगरे पार्थमेकं किं नावधीस्तदा।
यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना
सृगाला इव सिंहेन क्व ते वीर्यं तदा गतम्॥ 8-35-73(56622)
भ्रातरं निहतं दृष्ट्वा समरे सव्यसाचिना।
पश्यतां कुरवीराणां प्रथमं त्वं पलायितः॥ 8-35-74(56623)
तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतान्।
कुरून्सदारानुत्सृज्य त्वमेवाग्रे पलायितः॥ 8-35-75(56624)
हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे।
कर्ण दुर्योधनं पार्थः सभ्रातृकममोक्षयत्॥ 8-35-76(56625)
पुनः प्रभावः पार्थस्य पुराणः केशवस्य च।
कथितः कर्ण रामेण सभायां कुरुसंसदि॥ 8-35-77(56626)
सततं च त्वमश्रौषीर्वचनं द्रोणभीष्मयोः।
अवध्यौ वदतोः कृष्णौ सन्निधौ च महीक्षिताम्॥ 8-35-78(56627)
कियन्तं तत्र वक्ष्यामि येनयेन धनञ्जयः।
त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा॥ 8-35-79(56628)
इदानीमेव द्रष्टासि प्रधाने स्यन्दने स्थितौ।
पुत्रं च वसुदेवस्य कुन्तीपुत्रं च पाण्डवम्॥ 8-35-80(56629)
यथाऽश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः।
तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनञ्जयम्॥ 8-35-81(56630)
यदा त्वं युधि विक्रान्तौ वासुदेवधनञ्जयौ।
द्रष्टास्येकरथे कर्ण तदा नैवं वदिष्यसि॥ 8-35-82(56631)
यदा शरशतैः पार्थो दर्पं तव वधिष्यति।
तदा त्वमन्तरं द्रष्टा आत्मनश्चार्जुनस्य च॥ 8-35-83(56632)
देवासुरमनुष्येषु प्रख्यातौ यौ नरोत्तमौ।
तौ मावमंस्था मौर्ख्यात्त्वं स्वद्योत इव रोचनौ॥ 8-35-84(56633)
सूर्याचन्द्रमसौ यद्वत्तद्वदजुनकेशवौ।
प्रकाश्येनाभिविख्यातौ त्वं तु खद्योतवन्नृषु॥ 8-35-85(56634)
एवं विद्वन्मावमंस्थाः सूतपुत्राच्युतार्जुनौ।
नरसिंहौ नरश्वा त्वं जोषमास्स्व विकत्थसे॥ ॥ 8-35-86(56635)
इति श्रीमन्महाभारते कर्णपर्वणि पञ्चत्रिंशोऽध्यायः॥ 35 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-35-8 रुतं जयपराजयसूचकम्॥ 8-35-9 निमित्तानि दिव्यान्तरिक्षभौमानि ग्रहाद्यानुकूल्यप्रातिकूल्यादीति। निदर्शनं दृष्टान्तम्॥ 8-35-15 अतिपातिनः गत्यतिशयगामिनः। चक्राङ्गाः मानसचारिणः॥ 8-35-16 पतत्रिभ्योऽन्येभ्यः प्रतार्यमाणोऽन्यथाप्रत्याय्यमानः॥ 8-35-19 श्रेष्ठभाक् श्रेष्ठं अङ्गं भजते॥ 8-35-20 पताव गच्छावः॥ 8-35-29 मिषतां पश्यताम्॥ 8-35-30 केन पातेन॥ 8-35-33 एकं मुख्यम्॥ 8-35-35 कथमेकेन पातेन जयेम शतपातिनम्। एकेनैव स यात्वेनं पातेनाभिविष्यसि इति ट.पाठः॥ 8-35-35 पञ्चत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|